📚 तत्वमुक्ताकलापः (वेदान्तदेशिकः)
Page 1
Download 📥
________________ श्लोकानां संख्या- ५०० श्रीमद् वेङ्कटनाथ-वेदान्तदेशिक - विरचिते तत्वमुक्ताकलापे जडद्रव्यसरः लक्ष्मीनेत्रोत्पलश्री सततपरिचयादेष संवर्धमानो नाभीनालीकरि [ङ्ग]ङ्खन्मधुकरपटली दत्तहस्तावलम्बः । अस्माकं संपदोघानविरलतुलसीदामसञ्जात भूमा कालिन्दी कान्तिहारी कलयतु वपुषः कालिमा कैटभारेः ॥ १ ॥ नानासिद्धान्तनीतिश्रमविमलधियोऽनन्तसूरेस्तनूजो वैश्वामित्रस्य पौत्रो विततमखविधेः पुण्डरीकाक्ष सूरेः । श्रुत्वा रामानुजार्यात्सदसदपि ततस्तत्त्वमुक्ताकलापं व्यातानीद्वेङ्कटेशो वरदगुरुकृपालम्भितोद्दामभूमा ।। २ ।। प्रज्ञासूच्याऽनुविद्धः क्षतिमनधिगतः कर्कशात्तर्कशाणा- च्छुद्धो नानापरीक्षास्वशिथिल विहिते मानसूत्रे निबद्धः । आतन्वानः प्रकाश बहुमुखमखिलत्रा सर्वधुर्यधुर्यो घार्यो हेतुर्जयादेः स्वहृदि सहृदयस्तत्त्वमुक्ताकलापः ॥ ३ ॥ जीवेशतस्व प्रमितियुतपरोपासनामुक्तिहेतुः शक्यस्तत्तत्प्रकारावगतिविरहिभिनव याथात्म्यबोधः । ते ते चार्था विदध्युः कुमतिविरचितास्तत्त्वबोधोपरोधं तस्मान्निर्धूतसवं प्रति मतविमति साधये सर्व मर्थम् ॥ ४ ॥ शिष्टा आवारोद्वापत स्युः कतिकति कविधीचित्रवत्तत्तदर्थे- ब्वानन्त्यादस्तिनास्त्योरन व धिकुहनायुक्तिकान्ताः कृतान्ताः । तस्वालोकस्तु लोप्तुं प्रभवति सहसा निस्समस्तान्समस्तान् पुस्त्वे तस्वेन दृष्टे पुनरपि न खलु प्राणिता स्थाणुतादिः ॥ ५ ॥ द्रव्याद्रव्यप्रभेदान्मितमुभयविधं तद्विदस्तत्वमाहु- व्यं द्वेधा विभक्तं जडमजडमिति प्राच्यमव्यक्तकाली । अन्त्यं प्रत्यक् पराकु च प्रथममुभयधा तत्र जीवेशभेदा- नित्या भूतिर्मतिश्चेत्यपरमिह जडामादिमां केचिदाहुः ॥ ६ ॥ Scanned by CamScanner